Saturday, July 8, 2023

भगवद गीता और विष्णुसहस्र नाम पठन से पहले की प्रार्थना

श्रीपरमात्मने नमः 
श्रीमद्भगवद्गीता च विष्णुसहस्रनामसहिता पठन क्रियान्यास स्तोत्रम।

अथ करन्यासः

ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य भगवान्वेदव्यास ऋषिः । 
अनुष्टुप् छन्दः । 
श्रीकृष्णः परमात्मा देवता । 
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् ॥ 
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः ॥ 
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ॥ 
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः ॥ 
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ॥ 
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च इति मध्यमाभ्यां नमः ॥ 
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ॥ 
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्त्रश इति कनिष्ठिकाभ्यां नमः ॥ 
नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति करतलकरपृष्ठाभ्यां नमः ॥ 

इति करन्यासः ॥

अथ हृदयादिन्यासः

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः ॥ 
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा ।। 
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च इति शिखायै वषट् ॥ 
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इति कवचाय हुम्। 
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्त्रश इति नेत्रत्रयाय वौषट् ॥ 
नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय फट् ॥ 

श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ॥ 

ॐ 

पार्थाय प्रतिबोधितां भगवता 
नारायणेन स्वयं व्यासेन ग्रथितां 
पुराणमुनिना मध्येमहाभारतम् । 
अद्वैतामृतवर्षिणीं 
भगवतीमष्टादशाध्यायिनी - मम्ब 
त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥ १ ॥ 

नमोऽस्तु ते व्यास विशालबुद्धे 
फुल्लारविन्दायतपत्रनेत्र
येन त्वया भारततैलपूर्णः
प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २ ॥

प्रपन्नपारिजाताय तोत्त्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३ ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥४॥

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । 
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥ ५॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं 
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । 
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा 
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ६ ॥

मूकं करोति वाचालं पङ्गं लङ्घयते गिरिम्। 
यत्कृपा तमहं वन्दे परमानन्दमाधवम्॥७॥ 



अथ गीतामाहात्म्यम्

गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान्।
विष्णोः पदमवाप्नोति भयशोकादिवर्जितः ॥ १ ॥

गीताध्ययनशीलस्य प्राणायामपरस्य च 
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च॥२॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । 
सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ ३॥ 

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः । 
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ ४॥

भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् ।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ॥ ५ ॥

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । 
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ६ ॥ 

एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव। 
एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥ ७॥



अथ ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्। 
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं 
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

ॐ अस्तु।

Saturday, July 1, 2023

संजीवनी सूक्तम

ऋग्वेद, 10, सूक्त - १६१ 
संजीवनी सूक्तम 

मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । 
ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम्॥१॥

यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । 
तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय॥२॥

सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् । 
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम्॥३॥

शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् । 
शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ४॥

आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव । 
सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम्॥५॥


[ऋषि-यक्ष्मनाशन प्राजापत्य ।देवता-इन्द्र । छन्द-त्रिटुप, अनुष्टुप ।]

10430
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।
ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥1॥

हे मनुज रोग-मुक्त हो जाओ पाओ सदा स्वस्थ तन - मन ।
रोग-शोक से दूर ही रहना सदा - सदा हो शुभ चिन्तन ॥1॥

10431
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
तमा हरामि निऋते रुपस्थादस्पार्षमेनं शतशारदाय ॥2॥

कोई कितना भी बीमार हो हो चाहे वह मरणासन्न ।
तो भी निरोग वह हो सकता है पा सकता है पुष्ट तन-मन॥2॥

10432
सहस्त्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् ।
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥3॥

अग्नि -देव को हविष्यान्न दें यह भी है उत्तम उपचार ।
दीर्घ-आयु फिर मिल जाता है शुध्द भाव हो शुभ व्यवहार॥3॥ 

10433
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् ।
शतमिन्द्राग्नी सविता बृहस्पतिःशतायुषा हविषेमं पुनर्दुः॥4॥

हे मनुज रोग-मुक्त हो कर सौ बरस जियो अब खुश होकर।
शुभ-चिन्तन शुभ मनन सदा हो जो चाहो बॉंटो खुश होकर॥4॥

10434
आहार्षं त्वाविदं त्वा पुनरागा: पुनर्नव ।
सर्वांङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेSविदम्॥5॥

हर दिन को नया जन्म समझो तुम सोच समझ कर कर्म करो ।
दुनियॉं देखो और उससे सीखो निज-निष्ठा का अनुकरण करो॥5॥ 

राष्ट्र स्तुति

राष्ट्र स्तुति प्रियं भारतम् प्रकृत्या सुरम्यं विशालं प्रकामं सरित्तारहारैः ललामं निकामम् । हिमाद्रिर्ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्...