Monday, February 19, 2024

राष्ट्र स्तुति


राष्ट्र स्तुति प्रियं भारतम्

प्रकृत्या सुरम्यं विशालं प्रकामं सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्वथा दर्शनीयम् ॥ १॥

धनानां निधानं धरायां प्रधानं इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं प्रियं भारतं तत्सदा पूजनीयम् ॥ २॥

अनेका प्रदेशाः अनेकाश्च वेशाः अनेकानि रूपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः प्रियं भारतं तत्सदा रक्षणीयम् ॥ ३॥

सुधीरा जना यत्र युद्धेषु वीराः शरीरार्पणेनापि रक्षन्ति देशम् ।
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः प्रियं भारतं तत्सदा श्लाघनीयम् ॥ ४॥

वयं भारतीयाः स्वभूमिं नमामः परं धर्ममेकं सदा मानयामः ।
यदर्थं धनं जीवनं चार्पयामः प्रियं भारतं तत्सदा वन्दनीयम् ॥ ५॥

कविवर्य- डाॅ. चन्द्रभानु त्रिपाठी

No comments:

Post a Comment